Monday 26 September 2011

सुपद्यसमुच्चयः

।। श्रीमन्नरायणविरचितम् ।।
।। गणपत्यष्टकस्तोत्रम् ।।

हेरम्बकं सुवरदं स्वदमानमोदं
विघ्नापहारिणमतुल्यशिवस्वरूपम्।
द्वैमातुरं गणपतिं गजवक्त्रमाद्यं
शैलाधिराजतनयासुतमानतोऽस्मि ।। १ ।।

शुण्डोल्लसत्सुमधुरस्वदलड्डुखण्डं
पाशाङ्कुशायुधधरं विमलं गजास्यम् ।
अब्जासनं सपरशुं वरदं त्रिणेत्रं
लम्बोदरं परिणमामि गणादिवन्द्यम् ।। २।।
उन्मत्तवारणमुखं विधृतेक्षुदण्डं
ग्रैवेयहारशुभकङ्कणभूषिताङ्गम् ।
विघ्नान्तकं शिवसुतं नमनैकगम्यं
तापत्रयापनयनं हृदि भावयामि ।। ३ ।।

देवं गणाधिपमचिन्त्यमवर्णनीयं
विघ्नाधिराजगजवक्त्रनिरञ्जनाख्यम् ।
भक्षप्रियं त्रिणयनं वृषकेतनं त्वां
हस्तीन्द्रमम्बुजमुखं प्रणमामि शैवम् ।। ४ ।।
मूषेन्द्रवाहनमुदायुधवारणास्यं
भक्तप्रियं वरदमाशुमुदं विमत्तम् ।
मत्तं गजं सुमुखषण्मुखसोदरं त्वां
बालेन्दुकान्तिविमलास्यमितो नमामि ।। ५ ।।

रक्ताम्बरं करविराजितपाशपद्मं
स्थूलं तनुं तदनु सुन्दरमादधानम् ।
सिन्दूरकान्तिधरमाखुवरोपविष्टं
बालं करीन्द्रवदनं प्रनमस्करोमि ।। ६ ।।
शुण्डाग्रकोटिधृतमोदकमेकदन्तं
पङ्केरुहासनमचिन्त्यगुणस्वरूपम् ।
सिद्धिप्रदं करिवरं वरसूर्यकर्णं
वन्दे वृषध्वजमहं सुविनायकाख्यम् ।। ७ ।।

मन्मानसं गज ! विभो ! तव वासयोग्यं
सन्निश्चिनु प्रकुरुतात् करुणामनन्याम् ।
कर्यष्टकं व्यरचि ते समनुग्रहार्थं
दूरीकृतं गणपते ! रचयार्तिविघ्नान् ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं गणपत्यष्टकस्तोत्रं सम्पन्नम् ।।
।। समर्पणम् ।।

हेरम्बकाष्टकमकारि नु रामजेन
देवीसुतेन बहुविघ्नमपाकरिष्णु ।
नारायणेन निजभक्तिवशाद् गणेशे
स्तोत्रं हृदि स्फुरणभाजि समर्पितं तत् ।। ॐ ।।





।। श्रीमन्नारायणविरचितम् ।।
।। श्रीदुर्गाष्टकस्तोत्रम्।।

शङ्खं धृतां भगवतीं करवामकोर्ध्वे
दक्षोर्ध्वहस्ततलचक्रधरामुपास्याम्।
नम्राभयप्रदरतां वरदामभीष्टं
दुर्गां भजे विमलकेसरिपृष्ठविष्टाम् ।। १ ।।

यां दुस्तरप्रतरणे समुपाश्रितानां
मुक्तिप्रदामपि च भुक्तिभृतां शरण्याम्।
सृष्टिस्थितिप्रशमनादिविधौ सुशक्तां
दुर्गां भजे सकलभक्तशुभप्रदात्रीम् ।। २ ।।


अष्टादशैव करजालमुदायुधोत्थं
दैत्यैकनाशनपरं तव देवि ! वन्दे।
आपन्नभक्तमधुना परिपाहि दुर्गे !
दुःखोघदैत्यमपनीय सुखं प्रदेहि ।। ३ ।।

दैत्यैकनाशनपरो हि दकारमात्रो
विघ्नापहारणपरः प्रथितोऽप्युकारः।
रेफस्तु रोगहरणेऽप्यघहा गकारो
दीर्घस्वरो भयमपैतु शिवस्वरूपे ! ।। ४ ।।


दुःखेन गम्यत इति प्रथिताभिधाना
विघ्नार्तिनाशनकरी विमलस्वभावा।
सा वैष्णवी विष्णुनुताऽभिवन्द्या
तापत्रयैकशमनी निजमङ्गलाढ्या ।। ५ ।।

भो मानदात्रि ! नगनन्दिनि ! कृष्णरूपे !
शान्तस्वरूपिणि ! सनातनि ! विश्ववन्द्ये !
चक्रेश्वरि ! त्रिणयने ! यति ! वेदमातः !
सौभाग्यदात्रि ! परिपालय मामुपेतम् ।। ६ ।।


वैकुण्ठवासजननीं परमां पवित्रां
नारायणप्रियतमां सुरसिन्धुकन्याम् ।
सत्यस्वरूपनिलयां विमलां सुभद्रां
दुर्गां शुभां शिवनुतां हृदि भावयामि ।। ७ ।।

आद्यन्तहीननिजरूपमुपाश्रिताना-
मावर्धमानशिवशैलमुदाहरन्तीम् ।
हृन्मन्दिरेशि ! वरदामभयप्रदां त्वां
स्वायम्भुवामनुपदं समुपाश्रितोऽस्मि ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं दुर्गाष्टकस्तोत्रं सम्पन्नम् ।।

।। समर्पणम् ।।

दुर्गाष्टकं विरचितं किल रामजेन
देवीसुतेन निजदुःखमपाकरिष्णु ।
नारायणेन बहुभक्तिभराद्भवान्याः
स्तोत्रं हृदि स्फुरणभाजि समर्पितं तत् ।। ॐ ।।





।। श्रीमन्नारायणविरचितम् ।।
।। सरस्वत्यष्टकस्तोत्रम् ।।

दक्षाधःकरपङ्कजे रवमयीं वीणां वहन्तीं सदा
दक्षोर्ध्वे जपमालिकां मणिगणैराभूषिताङ्गां वराम् ।
वामाधःकरसम्भृताखिलपराविद्यासुपुस्तान्वितां
सुस्मेरस्फुटिताधरां सुनयनां वाचामधीशां भजे ।। १ ।।

शब्दानामसि देवि ! गानवचसोराधारभूता स्वयं
तद् वन्दे मुकुलीकृताञ्जलिरहं त्वत्पादपङ्केरुहम् ।
प्रत्यक्षीभवतात् सरस्वति ! सदा जिह्वाग्रके संस्थिता
मां मन्दस्मितमञ्जुमञ्जुलमहादुग्धाम्बुधौ प्लावय ।। २ ।।

तां जिह्वासु सतां प्रतिष्ठिततरां ज्ञानस्वरूपात्मिकां
सिञ्चन्तीं च रसान् रसैकचरितां सच्चिन्मयीं भामयीम् ।
पश्यन्तीं कमलासनां परतरां वाङ्मध्यमां वैखरी-
मानन्दैकमयीं प्रसादमधुरां ध्याये हि विद्यामयीम् ।। ३ ।।

कारुण्यार्द्रतया पुनात्यतितरां भक्तान् नटान् गायकान्
धातुः सन्निहिता विलासबहुला वाचां तरङ्गात्मिका ।
एवं सर्वजनाभिवन्द्यविमलां विद्वज्जनोन्मोदिनीं
देवीमेव समर्चये प्रतिदिनं साहित्यगानात्मिकाम् ।। ४ ।।

वाक्यार्थस्फुटितां विभावविमलां भावैः स्थिरैरस्थिरैः
प्रौढार्थप्रकृतां बुधेन्द्ररसनाच्छ्रोत्रान्तसङ्गत्वरीम् ।
विद्यारम्भसमर्चितां हृदि तु मे सर्वात्मना संस्थितां
विद्यारूपसरस्वतीं भगवतीं पद्मोपविष्टां भजे ।। ५ ।।

गान्धारैः प्रकृतिस्वरैरुपयुतां षड्जर्षभैः पञ्चमैः
शुद्धैरेव तथा विकारजनितैः साध्यां च गीतात्मिकाम् ।
नैषादैरुदितां स्वरैश्च सहितां तां धैवतैर्मध्यमैः
संवाद्यादिविभिन्नभेदकलितां नित्यं भजे नादिनीम् ।। ६ ।।



मन्द्रान्मध्यसुतारकाद्यनुगमैः स्पष्टा च ते स्थायिता
गान्धाराश्रितदिव्यलोकविदिता रागानुवृन्दस्फुटा ।
या देवी नटगीतवाद्यरसिका सङ्गीततौर्यत्रिकी
सा मां पातु समस्तदेवविनुता शुक्लाम्बरा भारती ।। ७ ।।

विद्यामूर्तितया स्पृणोत्यविरतं भक्तानभीष्टैर्वरै-
रान्ध्यं क्लेशमपास्य या भगवती विज्ञानसन्दायिनी ।
वीणाऽऽलग्नकरां समस्तजगतामुत्साहदात्रीं परां
वाचं वाग्भिरुपासितुं प्रथमतो भक्तस्य यत्नो मम ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं सरस्वत्यष्टकस्तोत्रं सम्पन्नम् ।।

।। समर्पणम् ।।

भक्त्या रामसुतः सुपद्यरचनो नारायणो यत्नतो
देवीसूनुरपूर्वयोगवशतो वाग्रूपिणीं संस्तुवन् ।
पुण्यं किञ्चिदवाप्नवं भगवतिप्रीत्या श्रुतेरन्वहं
शब्दज्ञानसरस्वती विलसतादाचन्द्रतारं मयि ।। ॐ ।।





।। श्रीमन्नारायणविरचितम् ।।
।। महाविष्ण्वष्टकस्तोत्रम् ।।
अमृतजलधिशं श्रियः पतिं तं
करधृतशङ्खगदासुपद्मचक्रम् ।
बुधजनविनुतं सरोरुहाक्षं
विततमहं प्रणमामि सोमसिन्धुम् ।। १ ।।

सरसिजवदनं सुभक्तिगम्यं
मधुरिपुमाद्यमनन्तशायिनं तम् ।
यदुपतिमतुलं धराधरं त्वा-
मजितमहं विनतोऽस्मि वासुदेवम् ।। २ ।।


श्रितजनसुखदं परात्मभावं
विधृतजगत्स्थितिपालनप्रकारम् ।
प्रतियुगजननं सुभक्तवन्द्यं
सततमहं महयामि हेमशङ्खम् ।। ३ ।।

नरहरिवपुषं दशावतारं
पुरुषवरं मुरलीधरस्वरूपम् ।
नवजलदरमं रवीन्दुनेत्रं
दितिसुतनाशनमर्कयामि विष्णुम् ।। ४ ।।


त्रिभुवनविशदं परं नराणा-
मयनमुपेन्द्रमुपासनैकगम्यम् ।
प्रभुमतिविमलं त्रिविक्रमं त्वां
मुरजितमात्मभुवं भजे रमेशम् ।। ५ ।।

फणिवरशयनं विकुण्ठवासं
बुधवरमुग्रमरिष्टसूदनं त्वाम् ।
सुकमलनयनं नमत्सुलक्ष्यं
हरिमरिमर्दनमानतोऽस्मि शौरिम् ।। ६ ।।


सुहसितवदनं जगन्निवासं
सरममुरोधृतकौस्तुभं त्रिपादम् ।
विभुवरमभयं भयापहारं
त्रिभुवनपालकमर्हयामि गृध्नुम् ।। ७ ।।

प्रणतिमुपनयञ् जनार्दन ! द्राक्
तव पदपूजनमर्थये मुरारे !
अघमलघुतरं विनाशय त्वं
दिश समनुग्रहमेव भक्तवृन्दे ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं महाविष्ण्वष्टकस्तोत्रं सम्पन्नम् ।।

।। समर्पणम् ।।

विष्ण्वष्टकं विरचितं किल रामजेन
देवीसुतेन विभुभक्तिमुपाकरिष्णु ।
नारायणेन निजभक्तिवशाद् रमेशे
स्तोत्रं हृदि स्फुरणभाजि समर्पितं तत् ।। ॐ ।।





।। श्रीमन्नारायणविरचितम् ।।
।। महाशिवाष्टकस्तोत्रम् ।।
त्रिशूलधरमव्यं धृतमृगाङ्गुलिं पावनं
चतुर्भुजमतीन्द्रियं डमरुनादिनं खेचरम् ।
फणीन्द्रवृतकण्ठकं स्मरहरं हरं भद्रकं
भजे त्रिपुरनाशनं त्रिणयनं शिवं शङ्करम् ।। १ ।।

गिरीशमतुलाकृतिं विशदमष्टमूर्तिं खरुं
वृषध्वजमनिन्दितं मृडमनीशमृत्युञ्जयम् ।
अनादिरसनायकं पशुपतिं च विश्वेश्वरं
विरूपनयनं भरुं हृदयतः समाराधये ।। २ ।।


कपर्दिनमुमापतिं त्रिभुवनेशमीशं ध्रुवं
पिनाकिनमुदायुधं विजितसर्वदैत्यं प्रभुम् ।
जटाधरमजं भवं प्रबलमट्टहासङ्करं
गजाजिनधरं विभुं परिणमामि काशीपतिम् ।। ३ ।।

सतीश्वरमतीश्वरं विपुलमर्धनारीश्वरं
पुरद्विषमरिद्विषं सकलवेदसारन्धरम् ।
प्रपञ्चपितरं सुरं सुरनुतं च शर्वं शमं
हिमांशुधरमर्चये विदितसर्वशत्रुञ्जयम् ।। ४ ।।



यमान्तकमघान्तकं कुसुमबाणजीवान्तकं
विखण्डपरशुन्धरं सकललोकसम्मोहनम् ।
कुमारपितरं परं फणधरन्धरं भीषणं
नमामि गिरिजापतिं वृषभकेतुमाद्यं वरम् ।। ५ ।।

कपालधरमच्युतं विमलभालचन्द्रम्भरं
सुनीलगलसंलसत्फणिवरौघभीषाकुलम् ।
ललाटविलसन्महानलकसंस्फुरन्नेत्रकं
दिगम्बरमुपाश्रये विषमनेत्रमम्बापतिम् ।। ६ ।।



सुभक्तवरदायिनं गिरिशमाशुतोषं नटं
त्रयम्बकमृषीश्वरं वृषभवाहनं दाहनम् ।
महान्धकविनाशनं चटुलताण्डवं भैरवं
महेश्वरमहर्निशं मनसि भावये शूलिनम् ।। ७ ।।

जयन्त ! धरणीश्वर ! क्षितिज ! सिद्धदेव ! क्षमिन् !
महेश ! शिवशङ्कर ! स्वशितिकण्ठक ! क्षेमद !
महानट ! पुरान्तक ! प्रशम ! वामदेव ! प्रभो !
सदाशिव ! जगत्पते ! तव पदाब्जमाराधये ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं महाशिवाष्टकस्तोत्रं सम्पन्नम् ।।

।। समर्पणम् ।।

शम्भ्वष्टकं विरचितं किल रामजेन
देवीसुतेन शिवभक्तिमुपाकरिष्णु ।
नारायणेन निजभक्तिवशादुमेशे
स्तोत्रं हृदि स्फुरणभाजि समर्पितं तत् ।। ॐ ।।





।। श्रीमन्नारायणविरचितम् ।।
।। शास्त्रष्टकस्तोत्रम् ।।

प्रभुं प्रशमनायकं प्रबलशास्तृदेवेश्वरं
वराभययुगप्रदं समुपवीतरेवान्तकम् ।
गुहाशयवरासनं गुहसमं कुलक्षेमदं
कुलेश्वरमहर्निशं पुरवनेशमाराधये ।। १ ।।

सुकुन्तलधरं दमं कलियुगेशमार्यं सुरं
प्रशास्तृवरमव्ययं शबरिकेश्वरं रुद्रजम् ।
धनुर्धरमवर्णनं सुगलरक्तमालाधरं
नवीनजलदाद्भुतं हरिहरात्मजं भावये ।। २ ।।


प्रशान्तमुखमार्यकं श्रितजनाभयं भूतिदं
प्रभापतिममानुषं प्रसृतनीलवासोधरम् ।
करात्तशरचापकं दितिजवृन्दविध्वंसकं
पृदाकुवरवाहनं परमुपाश्रये मायकम् ।। ३ ।।

सुनीलवसनं विभुं हरिसुतं महादीप्तृकं
पुराणशिवमोहिनीसुतमपारवीर्यान्वितम् ।
नखायुधवरासनं विशदवर्णमातङ्गकं
नमामि शबरीश्वरं सकलभक्तसन्तोषदम् ।। ४ ।।



वनश्चगणदोहनं सकललोकसंरक्षकं
करालकरशोभिनं जलदवर्णिनं शासकम् ।
प्रभायुतससत्यकं विमलभूतनाथं शमं
गणप्रियमघापहं परमगोप्तृवीरं भजे ।। ५ ।।

शबर्यचलवासिनं सकलपापसन्नाशनं
प्रपट्टवसनावृतं कनककङ्कणालङ्कृतम् ।
सुपञ्चनखवाहनं परमगुह्यमात्मप्रभं
गिरीशहरिपुत्रकं हृदि नमामि घण्टागलम् ।। ६ ।।



सुकुण्डलधरं शदं विधृतकृष्णवर्णाम्बरं
सुचारुनयनान्वितं श्रितजनेष्टदेवं भवम् ।
सुघोरमहिषीमथं विदितधर्मसंरक्षकं
विभीरुवरवाहनं मनसि भावये शूरकम् ।। ७ ।।

महार्यसहजायकं विजितदैत्यवारश्रियं
नवीनमतुलाकृतिं कलियुगैकवन्द्यं शुभम् ।
सुखड्गधृतहस्तकं श्रितजनैकगम्यं परं
सुकालवसनावृतं हृदि भजेऽत्र नीलाश्वकम् ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं शास्त्रष्टकस्तोत्रं सम्पन्नम् ।।

।। समर्पणम् ।।

शास्त्रष्टकं विरचितं किल रामजेन
देवीसुतेन कुलभूतिकरं शुभार्थम् ।
नारायणेन निजभक्तिवशाद्युगेशे
स्तोत्रं हृदि स्फुरणभाजि समर्पितं तत् ।। ॐ ।।





।। श्रीमन्नारायणविरचितम् ।।
।। सुब्रह्मण्याष्टकस्तोत्रम् ।।

सुदुश्चरमुमासुतं प्रसृतसौरसेयं विभुं
षडाननमरिंशमं विदितभद्रसेनं भवम् ।
विशाखमपि चैत्रजं सुगुणताम्रचूडध्वजं
मयूरवरवाहनं शुभदकार्तिकेयं भजे ।। १ ।।

हरात्मजमघापहं प्रभुमनेकबाणं गुहं
हुताशनभुवं शिवं धृतमणिं महासैनिकम् ।
षडास्यमतुलाकृतिं विधृतहेमपीतांशुकं
हिमालयसुतासुतं विमलहेमचूडं श्रये ।। २ ।।


प्रभासुवलिताननं करतलात्तशक्तिन्धरं
सुरं च बलिनां वरं शरवणोद्भवं पावनम् ।
सुबर्हिवररोहणं दितिजतारकोन्नाशनं
प्रसन्नशुभषण्मुखं परिणमामि सेनापतिम् ।। ३ ।।

परिस्फुरितभालकप्रसृतभस्मपङ्क्तिम्भरं
करोद्धृतसुकङ्कणं विमलहारभूषान्वितम् ।
सुकुण्डलयुगोद्धरं गलतलोल्लसत्काञ्चनं
गणेश्वरसहोदरं शिवसुतं नमाम्यव्यम् ।। ४ ।।



सुबाणमतिवन्दितं गजमुखानतं वेलिनं
शिखावलकृतासनं लगुडहस्तमत्यौजसम् ।
सुशक्तिधरमद्भुतं शरजनिं शिवानन्दनं
हुताशनजनिं श्रये प्रवरबाहुलेयं शुभम् ।। ५ ।।

सदाशिवसुतोत्तमं दितिसुतौघसन्नाशनं
गुहाभिधमघान्तकं गिरिसुतात्मजं सैनिकम् ।
कुमारमतुलेक्षणं भजनशालिनामाश्रयं
प्रतारकविदारणं परिणमामि षाण्मातुरम् ।। ६ ।।



ग्रहोडुगणसंविदं सकलदेवसंवन्दितं
सुरेश्वरपराश्रयं विजिततारकं कामदम् ।
मयूरवरकेतनं शुभमुखं च चन्द्राननं
सुचारुशिखिवाहनं हृदि धरामि सेनानिनम् ।। ७ ।।

अमोघमनघं प्रियं सकलभूतनाथात्मजं
सुभद्रकृतमग्निजं गगनचारिणं भूतिदम् ।
हरात्मजमरिंहरं नमनतोषमानन्ददं
शिखिध्वजमुपाश्रये प्रचुरसिद्धसेनं शुचिम् ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं सुब्रह्मण्याष्टकस्तोत्रं सम्पन्नम् ।।


।। समर्पणम् ।।

स्कन्दाष्टकं विरचितं किल रामजेन
देवीसुतेन गुहभक्तिमुपाकरिष्णु ।
नारायणेन निजभक्तिवशात् कुमारे
स्तोत्रं हृदि स्फुरणभाजि समर्पितं तत् ।। ॐ ।।




।। श्रीमन्नारायणविरचितम् ।।
।। महाकाल्यष्ष्टकस्तोत्रम् ।।

कुलेशि ! कुलपालिनि ! प्रकृतभीषणे ! भद्रिके !
सुकालि ! दितिजासुतप्रशमनि ! क्षमाशालिनि !
गणेशगुहवन्दिते ! शिवसुते ! महाकालिके !
कुलं नु मम पालय प्रबलरुद्रकालीश्वरि ! ।। १ ।।

सुरुद्रतनयामजां भगवतीं जटाभेदजां
कपालकरधारिणीं रुधिरकालिकां भैरवीम् ।
कबन्धवसनावृतां दितिजरक्तपानोद्यतां
कुलक्षयविनाशिनीं परिणमामि शूलन्धराम् ।। २ ।।



पुरा महिषमर्दिनी रुधिरबीजनामासुरं
प्ररोद्धुमतिवर्धितं रुधिरपानशीलोद्बलाम् ।
न्ययुङ्क्त जगदम्बिका हरसुतां जगद्रक्षिणीं
तदेव परिरक्ष मां मम कुलं च कालीश्वरि ! ।। ३ ।।

स्वनाशभयहेतुतो भ्रमवशाच्च कंसः पुरा
सुगोपतनयाधृते ! चरणयोर्गृहीता तव ।
अधायि करुणा त्वया शिवजयाऽपि कंसे तदा
करालवदने ! शुभे ! सुपरिपालयाश्वम्बिके ! ।। ४ ।।




मनोजवसुलोहिते ! प्रसितमुण्डमालाधरे !
सुभैरवसहोदरि ! त्रिपुरिके ! महाभीषणे !
सुमुक्तवरवेणिके ! भुवनपालिनि ! प्राकृते !
प्रदेहि वरमव्यये ! सुकुलभद्रिके ! रक्ष माम् ।। ५ ।।

प्रघोरतरदन्तुरां रुधिरलिप्तजिह्वां वरां
कबन्धतलवाहनां करतलाग्रखड्गन्धराम् ।
पृदाक्वजिनवस्त्रकां कुलसुपालिनीं दारिकां
सुघोरवदनां चतुर्भुजधृतायुधामाश्रये ।। ६ ।।




सकुण्डलवरश्रवां कठिनरक्तनेत्रन्धरां
सदाशिवजटोद्भवां सततदैत्यरक्तन्धयाम् ।
प्रजापतिशिरःकरां विमलभस्मभूषावृतां
नमामि कुलभद्रिकां विधृतशूलताराह्वयाम् ।। ७ ।।

त्रिणेत्रतपनोद्भवां विनुतलोकतोषङ्करीं
करालमुखमण्डलामभयदानहस्तान्विताम् ।
अभीष्टवरदायिनीं सकलदुःखसम्मार्जनीं
अघोरबलभद्रिकां परिणमामि रुद्रेश्वरीम् ।। ८ ।।

।। इति श्रीमन्नारायणविरचितं महाकाल्यष्टकस्तोत्रं सम्पन्नम् ।।

।। समर्पणम् ।।


घोराष्टकं विरचितं किल रामजेन
देवीसुतेन भजनाय सुभद्रिकायाः ।
नारायणेन बहुभक्तिवशात्सुकाल्याः
स्तोत्रं हृदि स्फुरणभाजि समर्पितं तत् ।। ॐ ।।




।। श्रीमन्नारायणविरचितम् ।।
।। गुरुवन्दनम् ।।

देवेष्टबन्धुपतिभक्तिपरां सुभाग्या-
न्नित्यं स्वकीयजनभोजनदानतुष्टाम् ।
पुत्राभिवृद्धिपरिमोदनशीलदेवीं देवीं
नमामि जननीं सुकुलाभिजाताम् ।। १ ।।

यत्नैकशीलमतुलं कृतवेदविद्यं
विद्युत्प्रयोगविदमद्भुतयन्त्रविज्ञम् ।
विज्ञानमोदमभिवन्द्यजनाभिरामं
रामं नमामि जनकं कुलभागधेयम् ।। २ ।।


वृद्धे दारिद्र्यदुःखे व्ययधनविरहाद्दीनमग्ने कुटुम्बे
जीवोपायप्रदानं प्रथममिति धियोपात्तदोहाख्यदेशम् ।
वात्सल्याविष्टचित्तं समुचितनयतो मित्रवृन्दाभिगम्यं
वन्दे तं श्रीकुमारं श्रितजनसुखदं सौम्यशीलं पितृव्यम् ।। ३ ।।

सुवात्सल्यं यस्याः परमदयता बन्धुषु परं
निजेष्वन्येषां वा शिशुषु समभावं विदधतीम् ।
सुभक्तां देवानाममलहृदयां तामतितरां
पितृव्यां सावित्रीं विशदगुणभावां ननु भजे ।। ४ ।।



शुभ्रशीलां विष्णुभक्तां विदुषीं नित्यकर्मिणीम् ।
सावित्र्याख्यां कुलोत्पन्नां नित्यं मातामहीं भजे ।। ५ ।।

मातृभावां स्मितमयीं कुलवृद्ध्यभिलाषिणीम् ।
पितृष्वसारं चार्याख्यां नित्यस्नेहमयीं भजे ।। ६ ।।

वासुदेवः पितुर्ज्येष्ठः कुटुम्बस्नेहतत्परः ।
उपानयन्मां श्रुतिमान् वन्दे तं कुलवैभवम् ।। ७ ।।




नारायणः पितामहश्चार्याख्या मे पितामही।
स्वर्गस्थौ चावुभौ वन्दे कुलश्रेयःपरौ परम् ।। ८।।

मातामहो मे श्रुतिमान्नारायण इति श्रुतः ।
याज्ञिकानां कुले जातस्तं वन्दे स्वर्गसंस्थितम् ।। ९ ।।

सन्मार्गदर्शकमतुल्यगुणप्रभावं
धर्मज्ञमुद्यमरतं विनयैकशीलम् ।
काव्यादिशास्त्रविदमर्जितमित्रवृन्दं
नारायणं हृदि भजे निजमातुलाढ्यम् ।। १० ।।


श्रीवासुदेवगुरुयुग्मसमर्चनादि-
सम्पादिताखिलसुतर्किलगौतमीयम् ।
श्रीनीलकण्ठ इति विश्रुतनामधेयं
सुश्रोत्रियं ननु भजे जनकाग्रजं तम् ।। ११ ।।

योऽशिक्षयन्निखिलसंस्कृतकाव्यसारं
नैयायिको सकलशास्त्रविदां वरेण्यः ।
श्रीवासुदेवगुरुरुज्ज्वलकीर्तियुक्त-
स्तं सन्नमामि सुकविं हृदयेन विप्रम् ।। १२ ।।



सच्छाब्दिकं त्रिमुनिमार्गमुपेयिवांसं
विप्रोन्नुताखिलसुशिष्यतताढ्यवन्द्यम् ।
विज्ञानमूर्तिमतुलं गुरुमात्तशास्त्रं
गोविन्दपाणिघवरेण्यमनुस्मरामि।। १३ ।।

कवीन्द्रगणवन्दितं रचितगद्यबन्धावलिं
प्रयत्नसमुपार्जितस्फुरितदेवभाषारसम् ।
विशालहृदयाधिपं विदितशब्दशास्त्रामृतं
भजे भरतषारकं विनुतशिष्यवृन्दं गुरुम् ।। १४ ।।


सुशिष्यगणसंवृतं सकललोकसन्दर्शकं
प्रशान्तहृदयानुगस्वदितसाहितीसारकम् ।
प्रकामविशदाशयं सुफलकर्मदिग्दर्शकं
भजे सुगुणशालिनं मुरलिमाधवाख्यं गुरुम्।। १५ ।।

बौद्धशास्त्रविदामाढ्यं लिपिज्ञं लोकविश्रुतम् ।
मुख्योपाध्यायतिलकं सप्तकौडिं नमाम्यहम् ।। १६ ।।

काव्यारम्भोपदेष्टारं शमभावस्मिताननम् ।
कविं योगविदं वन्दे गुरुं केशवनायकम् ।। १७ ।।


वाक्चातुर्यचणं यत्नशीलं वात्सल्यशालिनम् ।
पितृव्यं ब्रह्मदत्ताख्यं विद्युद्यन्त्रविदं भजे ।। १८ ।।

सरसं योगिनं विप्रं शाब्दिकं च कविं गुरुम् ।
मातृपैतृष्वसेयं तं वन्देऽहं परमेश्वरम् ।। १९ ।।

दिव्याः सुश्रुतवाग्भटादिमुनयो वैषं च शास्त्रं मह-
द्यस्मिन् सद्गुणवारिधौ नृपसुते सिद्धं समक्रामयन्।
शास्त्राचार्यभिषग्वरं सुललितं मन्त्रौषधीसंविदं
कुट्टिक्कृष्णमहाशयं प्रतिदिनं प्रत्येकमाराधये ।। २० ।।

।। इति श्रीमन्नारायणविरचितं गुरुवन्दनं सम्पन्नम् ।।
।। श्रीमन्नारायणविरचिताः ।।
।। चित्रबन्धाः ।।

जाता शिवा वा शिताऽजा तामलाननला मता ।
शिलासनाऽनासला शिवानना गगना नवा ।।।। १ ।।
।। सर्वतोभद्रम् ।।

नाट्यराजं त्रिणयनं वन्देऽहं गणपं शिवम् ।
किराताकृतिदेवं तं श्रुतिरूपमरिक्षयम् ।। २ ।।
।। गवाक्षबन्धः ।। ।। विवक्षा- नारायणकृतिरियम् ।।







गोपं विष्णुं मुकुन्दं तं मृगेन्द्राननभासुरम् ।
केशवं माधवं वन्दे प्रमितारं सुगुं शरुम् ।। ३ ।।
।। गवाक्षबन्धः ।। ।। विवक्षा-गोविन्दं नमामि गुरुम् ।।


याऽऽशया विनुता माया या माता विशदाशया ।
याऽशदानधियाऽध्येया या ध्येया सा जयाशया ।। ४ ।।
।। पद्मबन्धः ।।

रागसान्द्रसुराधारा राधारामकलाकिरा ।
राकिलाऽमरलासारा रासाला रससागरा ।। ५ ।।
।। पद्मबन्धः ।।




शिवाय नटरूपाय महादुर्गाय ते सुर !
गोवाहनसुरूढाय स्वाहा भर्गाय ते हर ! ।। ६ ।।
।। गोमूत्रिकाबन्धः ।।



वैखरी नादरूढा या परा देवनुता नवा ।
मुखरा नाट्यरूपा या श्रीराद्या वन्दिता शिवा ।। ७ ।।
।। गोमूत्रिकाबन्धः ।।





वन्दे दुष्टगणघ्नि ! ते पदमहं दीप्रं च देवीं जना
मुक्तेर्गां प्रणमन्तु शर्वदयिते ! गोपस्य वंशप्रिये !
रुद्रादेर्विरहंकरांश्च दनुजान् विद्येर्न किं रक्ष मा-
माधातुं वनजे ! मुदं करुणया नाथे ! नये चोत्तमा ।। ८ ।।
।। षडारचक्रबन्धः ।। ।। विवक्षा- दुर्गां देवीं शरणमहं प्रपद्ये ।।
न्यायज्ञो यत्ननिष्ठो गुरुवरनमनख्यातिमान् सुप्रभाते
सज्ज्ञानप्रेरणाय प्रयतनविनतो गुर्व्यगुण्यं तनोति ।
दैवं वाभाति भक्ते नमनदिनमुपज्ञाय शं नित्यगुण्यो
वन्दे तं वासुदेवं मतिरतिलसतां भक्तिरध्यापकाय ।। ९ ।।
।। नागबन्धः ।।
।। इति श्रीमन्नारायणविरचिताः चित्रबन्धाः सम्पन्नाः ।।
।। श्रीमन्नारायणविरचितानि ।।
।। सूक्तिमुक्तकानि ।।

प्रभावलयिताननो लसति पूर्णिमा चन्द्रमाः
प्रकम्पितदिगन्तरो विधृतविह्वलः सागरः ।
सहस्रभुजभूपतेरिव नु सर्वगर्वं हर-
न्नुदेति धरणीतलाद् बहुतरङ्गमालाभरः ।। १ ।।

काव्यालापश्रुतिरसवशादात्तबोधेन वाहं
ग्राहं ग्राहं कविसहचरीं वासनां सत्कवीनाम् ।
नित्याभ्यासात् परिणमयितुं पद्यबन्धैरनेकै-
रुद्युक्तोपि स्खलितवचसा वाक्प्रयोगाद् बिभेमि ।। २ ।।


सुरापानासक्तेरनुपदमसौ स्त्रीविलुलितः
क्रमान्नष्टा लज्जा धनमपि मदादाप्तगदिकः ।
ततश्चौर्योद्वृत्तेर्नृपजनगणैर्दण्डितवपू
रुदन्मार्गान्मार्गं प्रविशति शठो दैन्यवलितः ।। ३ ।।

हृद्यं यत् कविकर्म सारविमलं रस्यं सहृद्धृत्तले
नूत्नं दर्शनमर्थगर्भविपुलं दिव्यं च निष्पन्नजम्।
अभ्यस्तं विधिवच्च विश्वमनिशं निर्वर्णयत्तत्त्वतो
नाट्ये वा श्रवणङ्गमे यदि मतिस्तुल्यं सुखं चात्मनि।। ४ ।।



नाट्यैर्भावविभावसत्त्ववलितैः सञ्चारिसंपावितैः
श्रव्यैरुत्तमकाव्यतत्त्वखचितैर्गुण्यैश्च रस्यैर्नवैः।
सामोदं विलसन् कथं नु रमते दुर्बोधशास्त्रान्तरे
बालस्त्रीरसिकाय वृद्धमहिलासङ्गः कथं रोचते।। ५ ।।

रम्याण्यालोक्य लोके मधुरमधुरितान् साधु संश्राव्य शब्दान्
हृद्यान्यारस्य नाट्यान्यतुलविभवभाञ्च्यन्वहं चिन्मरन्दे ।
स्मृत्वा चेतोविकारैर्विगतजननजैर्जातपर्युत्सुकेऽस्मिं-
ञ्छ्रव्यास्वादैकवृत्तौ महति सहृदये काव्यवृष्टिः पपात।। ६ ।।



गुरुपदपरिसेवाप्राप्तविद्यः शचीन्द्रः
पदविधिमधिगच्छंश्चन्द्रमाश्चेन्द्रकल्पः ।
प्रतिपदमनुवृद्धिं प्राप्य वा शुक्लपक्षे
व्यतनुत परिपाकात् पूर्णिमायां गुरुत्वम् ।। ७ ।।

सरस्वति कदा भवेर्मदभिजिह्विकानर्तकी
सुनादिनि तवातुलं चरणयुग्ममाराधये ।
अभीष्टवरदायिनि प्रसृतवेदसारात्मिके
सुदेवि मम जीवितं प्रतनु पावनं गीतिके ।। ८ ।।



यदा कवनकर्मणि श्रमवशादुत प्रातिभात्
प्रवृत्तिमभिलक्षयन् कविगणो वचः सेवते।
लसत् कवनकौतुकं सहृदयैकसंवादजं
तदा विजयतेतरां सकलसज्जनाह्लाददम्।। ९ ।।

पुरा कविपरम्परा विदितशास्त्रमर्मस्तरा
ऋषीश्वरविपश्चितां हृदयकोशसंवेदिता।
तदीयमतिलालितं विविधरूपसञ्चित्रणै-
रुपेतकवितामुखैः कवनकौतुकं वर्धताम्।। १० ।।



तनुरपि जलधेः समागमोत्का
प्रवहति सन्ततमुल्लसत्तरङ्गा ।
क्वचिदपि मलिना तथा विशुद्धा
श्रितजनपुण्यकरी निळानदीयम् ।। ११ ।।

शास्त्रश्रवेण सुधियो नितरां सुखन्तां
बालास्तु बुक्कनविधौ गृहपालकन्ताम् ।
दुग्धं स्तनात्किल गवां सुजनस्तु दोग्धि
स्वाभाविकं हि मशका रुधिरेच्छवः स्युः।। १२ ।।



उत्तुङ्गादुदभून्महेन्द्रककुभो रक्तारुणोद्यत्प्रभा-
बिम्बो बिम्बफलोपमो दिनकरो लोकैकबन्धुश्चिरम् ।
उद्धर्तुं स्वपनालसा जनततीर्जाग्रत्कराणां स्फुरै-
राविर्भूय समस्तजीवनिकरान् संचोदयन्तं भजे ।। १३ ।।

विष्णोः पादयुगं स्मराम्यतितरां कर्तुं मनः शाश्वतं
देवीं शुम्भनिशुम्भमर्दनचणां ध्याये हृदि प्राञ्जलि ।
शम्भुं च त्रिपुरान्तकं त्रिणयनं स्कन्दं गणेशं विभुं
शास्तारं सकलार्तिनाशनकरं कालीं भजे भारतीम् ।। १४ ।।



मन्दे मेषगते सलग्नमिथुने मान्दौ तु लग्नाश्रिते
सिंहे शुक्रगतौ शिखिन्यतितरां राहौ च कुम्भं गते ।
चन्द्रे चापगतौ कुजेन सहिते नारायणोऽसौ क्षितौ
कन्यागन्तृषु भानुचान्द्रिगुरुषु क्षेमः कुलस्याभवम् ।। १५ ।।

राहौ लग्नगते सलग्नमिथुने सिंहे च मन्दान्विते
केत्विन्द्वोर्धनुषा रवौ च कलशे मान्दौ तुलायां समम् ।
कर्के भौमभृगू वृषे बुधगुरू तत्तत्स्थितौ सुस्थितौ
लेभे रामसुतो जनिं च सुलभं नारायणोऽसौ क्षितौ ।। १६ ।।

।। इति श्रीमन्नारायणविरचितानि सूक्तिमुक्तकानि सम्पन्नानि ।।
।। श्रीमन्नारायणविरचितम् ।।
।। काननवर्णनम् ।।

पतङ्गशोभास्फुरिताङ्कुरा द्रुमा
मृदम्बुसम्बन्धसुवृद्धकाण्डकाः ।
फलन्ति नम्रा निबिडे वने मुदा
परोपकारैकरतास्तपस्विनः ।। १ ।।

पदे पदे या भगवत्पदाश्रिता
लताः प्रवृद्धाः क्रमशः प्रपेदिरे ।
सुभूषणत्वं व्रज कानन ! द्रुमै-
र्वसन्तपुष्पाभरणैरवादि तत् ।। २ ।।


वनवलीमुखकैर्ननु पीयते
मधुरशीतलितं सरितो जलम् ।
मरुति वाति विशन्ति पिपासया
मृगगणा गतशङ्कमथाटवीम् ।। ३ ।।

जलपिपासुभिरात्तमदैरिभै-
व्यगणयद्भिरिभान्तरमर्दनम् ।
ध्रुवमतानि नदीजलसंप्लवो
हतभयैरपि केसरिसम्मुखैः ।। ४ ।।



उपमृगेन्द्रमुपेत्य वने गजा
निजकरैः सिषिचुर्जलसम्भृतैः ।
शतमखो दिवि यत्र दिवौकसां
पतिरिहैव रराज स केसरी ।। ५ ।।

मृगपतिर्भगवत्पदमेत्य तं
मधुरया परमादरया गिरा ।
गुणनिधिं निजगाद निजेप्सितं
निजगदं जगदङ्गजवारणः ।। ६ ।।



परमतानि मतानि मतिक्रमा-
दरमतानिषताक्षमता निजा ।
सुविशदं विश दम्भविहीन ! भो !
विमृशते मृश ते सततं नमः ।। ७ ।।

कवितयाऽवितया वितते तते
गुरुदयोदितयाऽऽदितया तया ।
प्रदिश मे दिशमेनसिहीनकां
कविगुणं विगुणं गुणसागर ! ।। ८ ।।



कृतिमताऽतिमताऽनुगुणं परं
प्रभवता भवता भरिताशय़ः ।
परममानि ममानिशवाञ्च्छितं
सुमतिना मतिनाटकविप्लवम् ।। ९ ।।

समुदितं मुदितं मुदि तं विधिं
कलयताल्लयतानसमाकुलम् ।
सहृदयैर्हृदयैकसुजीवकै-
र्विरमितं रमितं रसमाकुलम् ।। १० ।।

।। इति श्रीमन्नारायणविरचितं काननवर्णनं सम्पन्नम् ।।
।। श्रीमन्नारायणविरचितम् ।।
।। मार्गवर्णनम् ।।

चित्रं विचित्रं ननु वाहनानां
मार्गे गतिर्भीषणमातनोति ।
यानस्य सञ्चालनवेगवृद्धौ
पन्थास्तु न्यूनायत एव सर्वः ।। १ ।।

पुरोपयातस्य पुरः प्रयातुं
वेगः प्रवृत्तिः खलु वाहनानाम् ।
मार्गः प्रकामं प्रसृतेषु याने-
ष्वन्योन्यसम्मर्दभरं प्रवृत्तः ।। २ ।।


मार्गाधिमार्गं कतिचिद्युवानो
यानैरसङ्ख्यैः परियातुकामाः ।
वियच्चरोल्कासदृशं भ्रमन्तः
प्रकाशयन्तश्च धनाढ्यतां स्वाम् ।। ३ ।।

नरः पुरस्तात् प्रतिरुद्धवर्त्मा
पश्चात्तनी यानमुपेयुषी द्राक् ।
वेगेन तं पातयितुं प्रवृत्ता
स्वकीयधार्ष्ट्यं प्रकटीकरोति ।। ४ ।।



द्विचक्रिका यन्त्रयुता पुरस्ता-
दयन्त्रिता कन्यकया सुवेगम् ।
यथाऽप्यहंपूर्विकबुद्धिरेव
शरीरमेत्येव चरत्यपूर्वा ।। ५ ।।

मृत्तैलसंपूरितवाहनस्य
मार्गान्तरे जन्तुगणाः क्रमन्ते ।
अध्वन्यमुष्मिन् महिषीगणांश्च
श्वानं तथा गां करभं त्वपश्यम् ।। ६ ।।



प्रमाणपत्रं न नवीकृतं मे
न योग्यता वाहनचालनेऽपि ।
तथाऽपि वेगो मम दर्शनीयः
सर्वे जना बिभ्यतु मत्प्रवृत्तेः ।। ७ ।।

यानं मदीयं मम मार्ग एष
तथेतरे निर्गुणतामुपेताः ।
के सन्ति लोकेऽप्यवरोद्धुकामा
मयि प्रयाते सति वेगपूर्वम् ।। ८ ।।




वामैकतानं मितवेगचालं
यानं तिरश्चीनगतं समेत्य ।
संघर्षपूर्वं भुवि पातयित्वा
ये यान्ति मार्गे चरितार्थपूर्वम् ।। ९ ।।

स्वयंकृतानर्थमपि क्वचिद्ये
न मन्वते लेशमुपेतदोषम् ।
दोषाः परेषां सुगुणा मदीयाः
सदा स्वतादर्शनतत्परास्ते ।। १० ।।

।। इति श्रीमन्नारायणविरचितं मार्गवर्णनं सम्पन्नम् ।।
।। समाप्तश्चायं ग्रन्थः ।। श्रीरस्तु ।।

4 comments:

  1. महोदयाः,सादरम्प्रणम्य। भवतां रचनाः सान्तं सानन्दं च पठिताः।
    अष्टकानि विविधाभिश्छन्दोरीतिभिः भक्तिवर्धकानि सन्ति।अष्टकानामङ्कित
    विधानं(समर्पणम्)रम्यम्। बन्धुषु भवदीया रक्तिः भक्तिश्च सुश्लाघ्ये स्तः।
    भवतां ज्योतिश्शास्त्रपरिचयोऽप्यभिनन्द्यते।
    भवतां चित्रकविताः पुराणकवीन् स्मारयन्ति। सूक्तिमुक्तकानि मनोहराणि।
    काननवर्णने मार्गवर्णने च आधुनिकता भासते। "रम्याण्यालोक्य लोके"इति
    श्लोकः "रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्"इति श्लोकं स्मारयित्वा
    सुश्लोकताङ्गतः।भाविनि काले भवतां कवितावाणी वर्धतामितोऽप्यधिकमित्याशासे।"दोहाख्यदेश"निर्देशः तत्र भवतामौद्योगिकीं प्रवृत्तिं सूचयति च।
    अभिवाद्य,
    सखा,
    ऐएन्नेस्साचार्यः।

    ReplyDelete
  2. संमान्याः नारायणवर्याः, नमांसि !
    स्तोत्राण्येतानि भवतां साहित्यिक, दार्शनिक, पौराणिक तथा वैयाकरणसर्वतोमुखप्रतिभायाः दृष्टान्तभूतानि प्रतीयन्ते । "जयन्त ! धरणीश्वर !" इति श्लोकः श्रीनाथ नारायण वासुदेवेति मुकुन्दमालास्थं श्लोकं स्मारयति । "सरस्वति कदा भवेर्मदभिजिह्विकानर्तकी" इति श्लोकः भवतां विनम्रतामेव सूचयति । इतोधिकसुकवनैः अस्मानानन्दयन्तु इति

    भवदीयः,
    आञ्जनेयप्रसादः

    ReplyDelete
  3. Respected Sir,
    I follow your postings/comments etc in BVP and they are certainly educative and informative. Your ability to compose verses create awe in me.
    Please keep updating your blog, as frequently as possible. Time permitting you may visit my blog 'madanalekha'
    { www.msbhat68.blogspot.com }

    ReplyDelete
  4. Exceptional Talent in Poetry.

    ReplyDelete